|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.63. अध्यायः 063
Mahabharata - Sabha Parva - Chapter Topics
राज्ञां रणोद्यमाद्विभ्यतो युधिष्ठिरस्य भीष्णेण समाश्वासनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम्।
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्। 2-63-1(13793)
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः।
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्।
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा। 2-63-2(13794)
असौ रोषात्प्रचलितो महान्नृपतिसागरः।
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह॥ 2-63-3(13795)
यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत्।
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह॥ 2-63-4(13796)
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे।
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः॥ 2-63-5(13797)
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति।
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः॥ 2-63-6(13798)
प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः।
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः॥ 2-63-7(13799)
वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः।
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ॥ 2-63-8(13800)
न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः।
` तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि'।
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः॥ 2-63-9(13801)
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः।
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्॥ 2-63-10(13802)
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः।
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत॥ 2-63-11(13803)
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर।
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम्॥ 2-63-12(13804)
आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा।
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा॥ 2-63-13(13805)
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः।
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर॥ 2-63-14(13806)
वैशम्पायन उवाच। 2-63-15x(1485)
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः।
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत॥ ॥ 2-63-15(13807)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि त्रिषष्टितमोऽध्यायः॥ 63॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-63-7 भषणं श्वरवः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|